संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-5
व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः ।
न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः । । २.४ । ।
सङ्केत:- व्रताय………………………………………………………………………………………………… मनोः प्रसूतिः ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम् नाम्ना: ग्रन्थात् उद्धृतं वर्तते| अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास: वर्तते| अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी गौसेवाया: वर्णनं वर्तते|
अन्वय: – व्रताय धेनो: अनुचरेण तेन शेषः अपि अनुयायिवर्ग: न्यषेधि, तस्य शरीररक्षा च अन्यत: न | हि मनो: प्रसूति: स्वविर्यगुप्ता (भवति) |
व्याख्या:- व्रताय – पुत्रार्थं नियमाय, धेनो: – नन्दिन्या:, अनुचरेण – सेवकेन, तेन – राजा दिलीपेन, शेषः अपि – सुदक्षिणातिरिक्तोsपि, अनुयायिवर्ग: – अनुचरवृन्दम्, न्यषेधि – न्यवर्ति, तस्य – राज्ञो दिलीपस्य, शरीररक्षा – देहपालनम्, च – तु, अन्यत: – अन्यस्मात् भृत्यादित:, न – नैव भवति | हि – यस्मात्, मनो: – वैवस्वतनामकमनो:, प्रसूति: – सन्तति:, सूर्यवंशराजान इति यावत् | स्वविर्यगुप्ता – निजपराक्रमरक्षिता, भवतीति शेषः |
अनुवाद: – व्रत ले लिए नन्दिनी के पीछे चलने वाले राजा दिलीप ने शेष नौकरों को भी लौटा दिया | उनके शरीर की रक्षा के लिए दूसरों की आवश्यकता न थी, क्योंकि मनु की सन्तान अपने पराक्रम से रक्षित होती है |