संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-14
अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।
यो हेमकुम्भस्तननिः सृतानां स्कन्दस्य मातुः पयसां रसज्ञः । । २.३६ । ।
सङ्केत:- अमुं………………………………………………………………………………………………… पयसां रसज्ञः ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम् नाम्ना: ग्रन्थात् उद्धृतं वर्तते| अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास: वर्तते| अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी गौसेवाया: वर्णनं वर्तते|
अन्वय: – पुरः अमुं पश्यसि (किम्?) असौ वृषभध्वजेन पुत्री कृत: य: स्कन्दस्य मातुः हेमकुम्भ स्तनानि: सृतानां पयसां रसज्ञः (अस्ति)|
संस्कृत व्याख्या:- पुर:- अग्रत:, अमुं- इमम्, देवदारुं- सुरद्रुमम्, पश्यसि- अवलोकयसि, य:- देवदारु:, स्कन्दस्य- कार्तिकेयस्य, मातु:- जनन्या पार्वत्या:, हेमकुम्भस्तननिः- कनककलश रूप पयोधि, सृतानां- निर्गतानाम्, पयसां- जलानाम् क्षीराणाञ्च, रसज्ञ:- स्वादज्ञ:, असौ- देवदारु:, वृषभध्वजेन- भगवता शिवेन, पुत्रीकृत:- स्वपुत्रत्वेन अङ्गीकृत: |
अनुवाद:- सामने इस देवदारु वृक्ष को देख रहे हो न? इसे शङ्कर जी ने पुत्र के समान माना है, जो कार्तिकेय की माता पार्वती के सोने के घटरूपी स्तनों से निकले हुए दुधरूपी जल के स्वाद को जानने वाला है|