संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-19
भवानपीदं परवानवैति महान्हि यत्नस्तव देवदारौ ।
स्थातुं नियोक्तुर्न हि शक्यं अग्रे विनाश्य रक्ष्यं स्वयं अक्षतेन । । २.५६ । ।
सङ्केत:- भवानपीदं………………………………………………………………………………………………… स्वयं अक्षतेन ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम् नाम्ना: ग्रन्थात् उद्धृतं वर्तते| अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास: वर्तते| अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी गौसेवाया: वर्णनं वर्तते|