संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-1
अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्यां ।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच । । २.१ । ।
सङ्केत:- अथ………………………………………………………………………………………………… धेनुमृषेर्मुमोच ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम् नाम्ना: ग्रन्थात् उद्धृतं वर्तते| अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास: वर्तते| अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी गौसेवाया: वर्णनं वर्तते|
अन्वय: – अथ यशोधन: प्रजानाम् अधिप: प्रभाते जायाप्रतिग्राहितगन्धमाल्यां पीतप्रतिबद्धवत्सां ऋषे: धेनुं वनाय मुमोचे|
शब्दार्थ:- अथ- निशानयनानान्तरम्, यशोधन: – किर्तिवित्त:, प्रजानाम् – जनानाम्, अधिप: -स्वामी, राजादिलीप:, प्रभाते – प्रातःकाले, जायाप्रतिग्राहितगन्धमाल्यां – सुदक्षिणास्वीकारितस्रक्चन्दनाम्, पीतप्रतिबद्धवत्सां – दुग्धपानानन्तरनिबध्दबालवत्सकाम्, ऋषे: – महर्षे:, स्वकुलगुरो:, वसिष्ठस्य, धेनुं – गां नन्दिनीम्, वनाय- वनं गन्तुम्, मुमोच- मुक्तवान् |
अनुवाद:- रात्रि के बीत जाने पर यश के धनी, प्रजापालक राजा दिलीप ने प्रात:काल सुदक्षिणा द्वारा दी हुई गन्ध-माला को ग्रहण करने वाली, दुध पीकर बन्धे हुए बछडे वाली महर्षि वसिष्ठ की नन्दिनी गौ को वन में चराने के लिए खोल दिया |