संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-4
निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् । । २.३ । ।
सङ्केत:- निवर्त्य………………………………………………………………………………………………. गोरूपधरामिवोर्वीम् ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम् नाम्ना: ग्रन्थात् उद्धृतं वर्तते| अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास: वर्तते | अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी गौसेवाया: वर्णनं वर्तते|
अन्वय: – दयालु: यशोभि: सुरभि: राजा तां दयितां निवर्त्यं पयोधरीभूतचतुःसमुद्रां सौरभेयीं गोरूपधराम् उर्वीम् इव जुगोप |
व्याख्या:- दयालु: – कारुणिक:, यशोभि: – कीर्तिभि:, सुरभि: – मनोज्ञ:, राजा – नृपो दिलीप:, तां – पूर्वोक्ताम्, दयितां – स्वप्रियां सुदक्षिणाम्, निवर्त्यं – परावर्त्यं, पयोधरीभूतचतुःसमुद्रां – विपुलदुग्धराशितिरस्कृतचतु:सागराम्, सौरभेयीं – सुरभितनयां नन्दिनीम्, गोरूपधराम् – धेनुरूपधारिणीम्, उर्वीम् – पृथ्वीम्, इव – यथा, जुगोप – ररक्ष |
अनुवाद: – दयालु एवं कीर्तियों से सुशोभित राजा दिलीप ने प्रियपत्नी सुदक्षिणा को लौटाकर अपने दुध से चारों समुन्द्रो को तिरस्कृत करने वाली सुरभि की पुत्री पृथ्वी नन्दिनी की चारों समुन्द्रो को चार स्तनों के रूप में धारण करने वाली गौरुपी पृथ्वी के समान रक्षा की |