(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .12)
साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः ।
तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम् ॥ १२ ॥
प्रसङ्ग:– प्रस्तुतं पद्यमिदम् अस्माकं पाठ्यपुस्तक-नीतिशतक नाम्नः ग्रंथात उद्घृतं वर्तते। अस्य ग्रन्थस्थ रचनाकार: महाराज: भर्तृहरि: वर्तते। एतस्मिंशच नीतिविषयका: अनेके श्लोकाः सन्ति । मानवेभ्यः नीति शिक्षयंति ।
अन्वयः-साहित्य सङ्गीतकलाविहीनः ( नरः ) पुच्छविषाणहीनः साक्षात् पशुः ( अस्ति ) । ( अयं ) तृणं न खादन् अपि जीवमानः ( भवति ) तत् पशूनां परमं भागधेयम् ( विद्यते )।
व्याख्या-साहित्य =काव्यार्थप्रतिपादकं शास्त्रम् , सङ्गीतं = वाद्य नृत्य-गीत- स्वरूपम्, कला: =शिल्पाद्याः चतुःषष्टिसङ्खयाकाः, साहित्य सङ्गीत-कलाः, साहित्य-सङ्गीत-कलाभिः विहीनो – विरहितः, इति साहित्यसङ्गीत-कलाविहीनः नरः । पुच्छं च विषाणं च पुच्छविषाणे, विषाणाभ्यां हीन इति पुच्छविषाणहीनः= लागूल-शृङ्गरहितः । साक्षात पशुः सर्वथैव पशुसमानः अस्ति । अयं, तृणं-घासम् । न खादन् अपि अभक्षय नपि । यत् जीवमानः =जीवशीलो भवति । तत् पशूनां – वास्तविकगवादि. पशूनाम् । परमं = श्रेष्ठम् । भागधेयं =भाग्यमस्ति । अत्राप्युपजातिवृत्तं वर्तते
भावार्थः-साहित्यादिविषयानभिज्ञः पुमान् मानवोचितगुणैः विहीन पशुरेवास्ति नूनम् । जात्या पशुप्राणिनि पुच्छ-विषाण योगो भवति परं नराकारे पशौ तु न तावत् पुच्छादियोगः । नराकारः पशुश्च घासमभक्षयन्नपि यत् जीवति तद् वास्तविकगवादिपशूनां महत् सौभाग्यं वर्तते । अन्यथा नराकारेण पशुना घासे भक्षिते सति तत्त्वतः पशूनां जीवनमेव व्यर्थं स्यादिति भावः ।
भाषार्थ-साहित्य, सङ्गीत और कला से अपरिचित व्यक्ति बिना सींग एवं पूंछ का साक्षात् पशु है। वह घास न खाकर भी जो जीवित रहता है, यह प्राकृत पशुओं के लिए बड़े सौभाग्य की बात है। यदि वे घास खाते तो वास्तविक पशुओं का जीवन दुरूह हो जाता। अतः नर-पशुओं का घास न खाना, प्राकृत पशुओं का बड़ा ही सौभाग्य है ॥ १२ ॥