(संस्कृत साहित्य )- नीतिशतकम् शलोक (1 .11)
शक्यो वारयितुं जलेन हुतभुक छत्त्रेण सूर्यातपो नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ।
व्याधिर्भेषजसङ्ग्रहैश्च विविधर्मन्त्रप्रयोगविष सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥११॥
प्रसङ्ग:– प्रस्तुतं पद्यमिदम् अस्माकं पाठ्यपुस्तक-नीतिशतक नाम्नः ग्रंथात उद्घृतं वर्तते। अस्य ग्रन्थस्थ रचनाकार: महाराज: भर्तृहरि: वर्तते। एतस्मिंशच नीतिविषयका: अनेके श्लोकाः सन्ति । मानवेभ्यः नीति शिक्षयंति ।
अन्वयः-हुतभुक् जलेन वारयितुं शक्यः, सूर्यातपः छत्रेण, समदः नागेन्द्र निशितांकुशेन, गोगर्दभौ दण्डेन, भेषजसन है: व्याधिः विविधैः मन्त्रप्रयोग विषं च ( वारयितुं शक्यते ), सर्वस्य शास्त्रविहितम् औषधं अस्ति, (परं) मूर्खस्य औषधं नास्ति ।
व्याख्या- हुतभुक्-हुतहोमद्रव्यं हविः घृतादि भुङ्क्ते इति हुतभुक् अग्निः । जलेन – वारिणा । वारयितुंशमयितुम् शक्यः योग्यः । एवं रीत्या सूर्यातपः-सूर्यस्यातपः सूर्यातपः- धर्मः उष्णता । छत्त्रेण = आतपत्रेण । निवारयितुं शक्यः ।समदः-मदेन सहितः समद सदसहितः । नागेन्द्र: गजराजः । निशिताङकुशेन निशितश्वासावंकुशो निशितांकुशः, तेन = तीक्ष्णांकुशेन । गोगर्द भी = वृषभ-सभी । दण्डेन = लगुडेन । व्याधिः-शरीरगतो ज्वरादिरोगः । भेषज सङ्ग्रहै -भेषजानां संग्रहः भेषजसंग्रहः, तैः भेषजसंग्रहै: औषधसंग्रहणैः निवारयितुं शक्यः ।विर्ष = सर्पदशनस मुद्भूतं गरलं कालकूटादि वा । विविधैः = विभिन्नः । मन्त्र-प्रयोग:-मन्तारं त्रायन्ते इति मन्त्राः, तेषां प्रयोगा मन्त्रप्रयोगा, तैः मन्त्रप्रयोगः ।निधारयितुमुत्तारयितुं शक्यः । एवं सर्वस्य पदार्थस्य । शास्त्रविहितम् -शास्त्रेण शास्त्रेषु वा विहितमिति शास्त्रविहितम् = शास्त्रोपदिष्टम् । औषधं = भेषजं,दोषप्रतिकाराय । अस्ति=विद्यते । किन्तु मूर्खस्य =जडमतेः पुरुषस्य । औषधंनास्ति = न विद्यते । तस्मात् सर्वस्य प्राणिहिंसाकरणीभूतदुष्टजन्तुजातस्य शास्त्रविहितं भेषजमस्ति, किन्तु मूर्खतानिवारणसमर्थं सुभाषितादिरूपंनास्तीत्यर्थः । अत्रापि शार्दूलविक्रीडितं छन्दः ।
भावार्थः-अग्न्यादिकं सकलं जलादिना शमयितुं शक्यते, किन्तु मूर्खस्य निवारणं कथमपि कर्तुं न शक्यते इति भावः ।
भाषार्थ-आग पानी से शान्त की जा सकती है, सूर्य की धूप छाते से रोकी जा सकती है, मतवाला हाथी तीखे अंकुश द्वारा वश में किया जा सकता है, गौ एवं गधे डण्डे से ठीक किये जा सकते हैं, रोग दवाओं से दूर किया जा सकता है और विष अनेक प्रकार के मन्त्रों से उतारा जा सकता है। इस प्रकार सब की दवा शास्त्रों में विहित है, किन्तु मूर्ख मनुष्य के लिए कोई दवा नहीं है । अतः मूर्ख की मूर्खता का प्रतिकार अशक्य है ॥ ११ ॥