संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-7
स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः ।
जलाभिलाषी जलमादधानां छायेव तां भूपतिरन्वगच्छत् । । २.६ । ।
सङ्केत:- स्थितः………………………………………………………………………………………………… भूपतिरन्वगच्छत् ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम् नाम्ना: ग्रन्थात् उद्धृतं वर्तते | अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास: वर्तते | अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी गौसेवाया: वर्णनं वर्तते |
अन्वय: – भूपति: तां स्थितां स्थित: प्रयाताम् उच्चलित: निषेदुषीम् आसनबन्धधीर: जलम् आददानां जलाभिलाषी छाया इव ताम् अन्वगच्छत् |
व्याख्या: – भूपति: – पृथिवीपति: राजा दिलीप:, तां – नन्दिनीम्, स्थितां – अवस्थिताम् सतीम्, स्थित: – तिष्ठन् सन्, प्रयाताम् – प्रचलिताम्, उच्चलित: – प्रचलन् गच्छन् सन्, निषेदुषीं – उपविष्टाम्, आसनबन्धधीर: – स्थिरतयोपविष्ट: सन्, जलम् – पानीयम्, आददानां – पिबन्तीम्, जलाभिलाषी – जलं पिबन् सन् (तां वसिष्ठधेनुम्), छाया – प्रतिबिम्बम्, इव – यथा, अन्वगच्छत् – अनुजगाम |
अनुवाद: – राजा दिलीप उस नन्दिनी के ठहरने पर ठहरते है, चलने पर चलते है, बैठने पर बैठते है, पानी पीने पर पानी पीते है, इस प्रकार छाया के समान उसके पीछे- पीछे चलते है |