संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-8
लताप्रतानोद्ग्रथितैः स केशैरधिज्यधन्वा विचचार दावं ।
रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् । । २.८ । ।
सङ्केत:- लताप्रतानोद्ग्रथितैः……………………………………………………………………………………………. दुष्टसत्त्वान् ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम् नाम्ना: ग्रन्थात् उद्धृतं वर्तते| अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास: वर्तते| अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी गौसेवाया: वर्णनं वर्तते|
अन्वय:- लताप्रतानोद्ग्रथितैः केशै: अधिज्यधन्वा स मुनिहोमधेनो: रक्षापदेशात् वन्यात् दुष्टसत्त्वान् विनेष्यन् इव दावं विचचार |
व्याख्या: – लताप्रतानोद्ग्रथितैः – वल्लीकुटिलतन्तुभिरुन्नमय्य बद्धै:, केशै: – कचै:, (उपलक्षित: – युक्त: शोभितो वा) अधिज्यधन्वा – आरोपितकार्मुक:, सज्जधनुष्मान्, मुनिहोमधेनो: – वसिष्ठहवनार्थधेनो:, रक्षापदेशात् वन्यात् दुष्टसत्त्वान् विनेष्यन् इव दावं विचचार |