संस्कृत साहित्य अभिज्ञानशाकुन्तलं श्लोक -Class 5
शुश्रूषस्व गुरुन् कुरु प्रियसखीवृत्तिं सपत्नीजने ,
भर्तुर्वि प्रकृतापि रोषणतया मा स्म प्रतीप गमः ⎸
भूयिष्ठमं भव दक्षिणा परिजने भाग्येष्व नुत्सेकिनी ,
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ||”
सङ्केत:- शुश्रूषस्व …………………………………………………………………… कुलस्याधयः |
प्रसङ्ग:- महाकवि कालिदासेन विरचितम् ‘अभिज्ञानशाकुन्तलम्’ नामकम् महाकाव्याद् उद्धृतोऽयम् श्लोक:| अत्र पतिगृहं गच्छन्ति शकुन्तला पित्रा महर्षिणा कन्वेन पतिगृहव्यवहारं उपदिश्यते|
अन्वय:- गुरुन् शुश्रुषस्व सपत्नीजने प्रियसखी वृतिं कुरु भर्तु: विप्रकृतापि रोषणतया प्रतीपं मास्म गम:| परिजने भूयिष्ठं दक्षिणा भोगेषु अनुत्सेकिनी भव, एवं युवतय: गृहिणी पदं यान्ति वामा: कुलस्य आधय: |
व्याख्या:- गुरुन् – श्वश्रु: (श्रेष्ठजनान्), शुश्रुषस्व – परिचर्यां कुरु, सपत्नीजने – पत्यु: अन्य स्त्रीजने, प्रियसखी – सुहृदवत, वृतिं – व्यवहारं कुरु, भर्तु: – स्वामिन:, विप्रकृतापि – विरुद्धम् आचरिता सति, रोषणतया – क्रोधे, प्रतीपं – विपरीतं, मास्म – नहि, गम: – गच्छ, परिजने – सेवकवर्गे, भूयिष्ठं – अधिकं, दक्षिणा – दाक्षिण्ययुक्ता भव, भोगेषु – विषयवासनासु, अनुत्सेकिनी – निरहङ्कारा भव, एवं – अनेन प्रकारेण, युवतय: – अल्पवयस्का:, गृहिणीपदं – गृहस्वमिन्या स्थानं, यान्ति – प्राप्नुवन्ति, वामा: – एतद्विपरीता:, कुलस्य – कुटुम्बस्य, आधय: – व्याधय: भवन्ति|
अर्थ:- तुम सास -ससुर आदि की सेवा करना ,सपत्नियों के साथ प्रिय सखियों जैसा व्यवहार करना ,पति के द्वारा अपमानित होने पर भी रोष से उनके विरुद्ध आचरण मत करना ,सेवकों के प्रति अत्यन्त उदार रहना और अपने भाग्य पर गर्व मत करना | इस प्रकार का आचरण करने वाली स्त्रियां ही गृहिणी नाम को सार्थक करती हैं,और इसके विपरीत आचरण करने वाली स्त्रियां तो कुल के लिये पीडादायकहि होती हैं |