संस्कृत साहित्य अभिज्ञानशाकुन्तलं श्लोक -Class 1
सरसिजमनुविद्धं शैवलेनापि रम्यं, मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति |
इयमधिकमनोज्ञा वल्कलेनापि तन्वी, किमिव हि मधुराणां मण्डनं नाकृतीनाम् ||
सङ्केत:- सरसिज ……………………………………………………………………………… नाकृतीनाम् |
प्रसङ्ग:- महाकवि कालिदासेन विरचितम् ‘अभिज्ञानशाकुन्तलम्’ नामकम् महाकाव्याद् उद्धृतोऽयम् श्लोक:| अत्र राजा दुष्यन्त मृगम् अनुसरन् महर्षे: कर्णवस्य आश्रम प्रविवेश तदा आश्रमवृक्षकान् सिञ्चन्ति बालिका अपश्यन् तासु शकुन्तला सौन्दर्येण स अतीव प्रभावितोऽस्ति|
अन्वय:- शैवलेन अनुविद्धम् अपि सरसिजं रम्यम्, हिमांशो मलिनमपि लक्ष्म लक्ष्मीं तनोति, इयं तन्वी वल्कलेन रम्या, हि मधुराणाम् आकृतीनां किमिव मण्डनं न|
व्याख्या:- शैवलेन- हरिततृणविशेषेण, अनुविद्धम् – युक्तम्, सरसिजं – पङ्कजं, रम्यम् – रमणीयं भवति, हिमांशो: – शितांशो: चन्द्रमस:, मलिनं – कृष्णवर्णमपि, लक्ष्मं – चिह्नं, लक्ष्मीं – शोभां, तनोति – विस्तारयति, एवं इयं – दृश्यमाना, तन्वी – क्षीणशरीरा शकुन्तला, वल्कलेन – तरुत्वक् अपि, रम्या – मनोहरा दृश्यते, हि – यत:, मधुराणां – सुन्दराणां, आकृतीनां – स्वरूपाणां, किमिव – किं वस्तु, मण्डनं न – अलङ्करणम् न भवति|
अर्थ:- कमल यद्यपि शिवाल में लिपटा है, फिर भी सुन्दर है। चन्द्रमा का कलंक, यद्यपि काला है, किन्तु उसकी सुन्दरता बढ़ाता है। ये जो सुकुमार कन्या है, इसने यद्यपि वल्कल-वस्त्र धारण किए हुए हैं तथापि वह और सुन्दर दिखाई दे रही है। क्योंकि सुन्दर रूपों को क्या सुशोभित नहीं कर सकता ?’