संस्कृत साहित्य अभिज्ञानशाकुन्तलं श्लोक -Class 7
सङ्केत:- आपरितोषाद् ………………………………………………………. चेत: |
प्रसङ्ग:- महाकवि कालिदासेन विरचितम् ‘अभिज्ञानशाकुन्तलम्’ नामकम् महाकाव्याद् उद्धृतोऽयम् श्लोक:| अत्र पात्राणां सावधानतोपदेशार्थमुक्ते सति सुविदितप्रयोगतयाऽऽर्यस्य न किमपि परिहास्यते इति नाट्योत्तरिते सूत्र धारमुखेनभूतार्थं कथयति|
अन्वय:- विदुषाम् आपरितोषात् प्रयोगविज्ञानं साधु न मन्ये शिक्षितानां बलवद् अपि चेत: आत्मनि अप्रत्ययम् |
व्याख्या:- विदुषाम् – विज्ञानम्, आपरितोषात् – यावत् सन्तोषो न स्यात्, प्रयोगस्य – नाट्यविधानस्य, विज्ञानं – चातुर्य, साधु – उत्तमम् इति सम्यक्, न मन्ये – न स्वीकरोमि, शिक्षितानां – विदितवेदितव्यानां, बलवद् – दृढम्, चेत: – हृदयम्, आत्मनि – स्वस्मिन्, न – नास्ति |
अनुवाद:- विद्वानों के सन्तोष तक (अर्थात् जब तक विद्वान् सन्तुष्ट न हो जायें तब तक) मैं अपने अभिनवकौशल को ठीक (सफ़ल) नहीं मानता (क्योंकि) अत्यधिक शिक्षित लोगों का भी चित्त (मन) अपने ऊपर विश्वासरहित होता है अर्थात् वे अपने ज्ञान के विषय में पूर्णत: विश्वस्त नहीं हो पाते |)
भावार्थ:- सामाजिकानां विदुषां परितोष एव प्रयोगस्य साधुत्वेविश्वासं जनयति| तथा च सुशिक्षितस्य अपि नटस्य आत्मन: प्रयोगे सामाजिक परितोषम् अन्तरा विश्वासो न भवतीति भाव: |