संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-3
तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया ।
मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् । । २.२ । ।
सङ्केत:- तस्याः………………………………………………………………………………………………… स्मृतिरन्वगच्छत् ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम् नाम्ना: ग्रन्थात् उद्धृतं वर्तते| अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास: वर्तते| अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी गौसेवाया: वर्णनं वर्तते|
अन्वय: – अपान्सुलानां धुरि कीर्तनीया मनुष्येश्वरधर्मपत्नी तस्याः खुरन्यासपवित्रपांसुम् मार्गं स्मृति: श्रुते: अर्थम् इव अन्वगच्छत् |
व्याख्या:- अपान्सुलानां – पतिव्रतानां, धुरि – अग्रे, कीर्तनीया – गणनीया, मनुष्येश्वरधर्मपत्नी – दिलिपराजमहिषी सुदक्षिणा, खुरन्यासपवित्रपांसुम् – शफ़विन्यासपवित्ररेणुम्, तस्या: – वसिष्ठधेनो:, मार्गं – पन्थानम्, स्मृति: – धर्मशास्त्रम्, श्रुते: – वेदस्य, अर्थम् – अभिधेयम्, इव – यथा, अन्वगच्छत् – अनुससार |
अनुवाद: – पतिव्रताओं में अग्रगण्य राजा दिलीप की धर्मपत्नी सुदक्षिणा उस नन्दिनी के खुरों के रखने से पवित्र धूलि वाले मार्ग में वेद के अर्थ के पीछे स्मृति के समान चली |