संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-13
अलं महीपाल तव श्रमेण प्रयुक्तम् अप्यस्त्रम् इतो वृथा स्यात् ।
न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्च्छति मारुतस्य । । २.३४ । ।
सङ्केत:- अलं………………………………………………………………………………………………… मारुतस्य ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम् नाम्ना: ग्रन्थात् उद्धृतं वर्तते| अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास: वर्तते| अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी गौसेवाया: वर्णनं वर्तते|
अन्वय: – हे महीपाल! तव श्रमेण अलम्| इत: प्रयुक्तम् अपि अस्त्रं वृथा स्यात्| पादपोन्मूलनशक्ति: मारुतस्य रंहः शिलोच्चये न मूर्च्छति|
संस्कृत व्याख्या- हे महीपाल! – हे भूपते!, तव- भवत:, श्रमेण- शराकर्षण प्रयासेन, अलं- न प्रयोजनम्, इत:- मयि सिंहे, प्रयुक्तं- निक्षिप्तम् अपि, अस्त्रं- वाणादिकम्, वृथा- व्यर्थम्, स्यात्- भवेत्, पादपोन्मूलनशक्ति:- वृक्षोत्पाटन समर्थनम्, मारुतस्य- वायो:, रंह:- वेग:, शिलोच्चयं- पर्वते, न मूर्च्छति- न प्रसरति|
अनुवाद:- हे राजन्! परिश्रम करना बेकार है, मेरे ऊपर चलाया हुआ आपका बाण विफ़ल हो जायेगा, क्योंकि वृक्ष को उखाडने की शक्ति रखने वाला वायु का वेग पहाड के सामने निष्फ़ल हो जाता है|