संस्कृत साहित्य अभिज्ञानशाकुन्तलं श्लोक -Class 6
अर्थो हि कन्या परकीय एव तामद्यसंप्रेष्य परिग्रहीतु: |
जातो ममायं विशद: प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ||
सङ्केत:- अर्थो …………………………………………………………….. इवान्तरात्मा |
प्रसङ्ग:- महाकवि कालिदासेन विरचितम् ‘अभिज्ञानशाकुन्तलम्’ नामकम् महाकाव्याद् उद्धृतोऽयम् श्लोक:| अत्र शकुन्तलां पतिगृहं प्रापयित्वा महर्षि कण्वो विशद् अन्तरात्मा सन् कथयति|
अन्वय:- हि कन्या परकीय: अर्थ:, अद्य तां परिग्रहितु: सम्प्रेषय चिरस्य निक्षेपम् अर्पयित्वा इव सद्य: विशद: अन्तरात्मा जात: अस्मि|
व्याख्या:- हि – यत:, कन्या – पुत्री, परकीय: – अन्यदीय, अर्थ: – धनम् अस्ति, अद्य तां – कन्यां शकुन्तलां, परिग्रहितु: – परिणेतु:, सम्प्रेषय – प्रेषयित्वा, चिरस्य – चिरकालस्य, निक्षेपम् – न्यासम्, अर्पयित्वा – स्थापकाय प्रदत्त:, इव सद्य: – शीघ्र, विशद: – भाररहित:, अन्तरात्मा – अन्तकरणं, जात: – प्राप्त:|
अनुवाद:- कन्या (लडकी) वस्तुत: दुसरे का धन है| आज उस (कन्या) को पति के (पास) भेजकर मेरा यह अन्त:करण उसी प्रकार अत्यन्त प्रसन्न हो गया है, जिस प्रकार धरोहर लौटा देने वाले व्यक्ति (का अन्त:करण अति प्रसन्न) (निश्चिन्त) हो जाता है|
भावार्थ:- कण्वकथनाभिप्रायोऽस्ति कन्या परस्य धनमस्ति | परधनरूपं कन्याधनं (शकुन्तलामि त्यर्थ:) तत्स्वामि पत्ये समपर्य तथैव कण्वो निश्चिन्तो जात: यथा कश्चिन् न्यासं तत्स्वामिनं प्रतयपर्य निश्चिन्त: (प्रसन्ना:) भवति|