संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-16
स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद ।
दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः । । २.४५ । ।
सङ्केत:- स त्वं………………………………………………………………………………………………… धेनुरियं महर्षेः ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम् नाम्ना: ग्रन्थात् उद्धृतं वर्तते| अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास: वर्तते| अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी गौसेवाया: वर्णनं वर्तते|
अन्वय: – स त्वं मदीयेन देहेन शरीरवृत्तिं निर्वर्तयितुं प्रसीद | दिनावसानोत्सुकबालवत्सा महर्षेः इयं धेनु: विसृज्यताम्|
संस्कृत- व्याख्या:- स:- अङ्कागतसत्त्ववृति:, त्वं- भवान्, मदीयेन- मामकीयेन, देहेन-शरीरेण, शरीरवृत्तिं- प्राणधारणम्, उदरपूरणं वा, निर्वर्तयितुं- सम्पादयितुं, प्रसीद- कृपा, दिनावसानोत्सुकबालवत्सा- सायमुत्कण्ठितबालशिशु:, महर्षेः- वसिष्ठस्य, इयं धेनु:- नन्दिनी, विसृज्यतां- मुच्यताम् |
अनुवाद- वह तू मेरे शरीर से अपने शरीर के जीवन जीवन को सम्पादन करने के लिए प्रसन्न हो| सन्ध्या के समय उत्कण्ठित छोटे बछडे वाली महर्षि की इस नन्दिनी गौ को छोड दो|