संस्कृत साहित्य – Book 2- रघुवंश 1.2 Lesson-6
आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दंशनिवारणैश्च ।
अव्याहतैस्स्वैरगतैस्स तस्याः सम्राट् समाराधनतत्परोऽभूत् । । २.५ । ।
सङ्केत:- आस्वादवद्भिः………………………………………………………………………………………समाराधनतत्परोऽभूत् ।
प्रसङ्ग:- प्रस्तुतं पद्यमिदं अस्माकं पाठ्यपुस्तक-रघुवंशम् नाम्ना: ग्रन्थात् उद्धृतं वर्तते| अस्य ग्रन्थस्य रचनाकार: महाकवि: कालिदास: वर्तते| अस्मिन् सर्गे पुत्रप्राप्त्यर्थं सपत्न्या: राज्ञ: दिलीपस्य नन्दिनी गौसेवाया: वर्णनं वर्तते|
अन्वय: – सम्राट् स आस्वादवद्भिः तृणानां कवलै: कण्डूयनै: र्दंशनिवारणै: अव्याहतै: स्वैरगतै: च तस्या: समाराधनतत्पर: अभूत् |
व्याख्या: – सम्राट् – मण्डलेश्वर:, स – राजा दिलीप:, आस्वादवद्भिः – रसवद्भि, स्वादयुक्तै:, तृणानां – घासानाम्, कवलै: – ग्रासै:, कण्डूयनै: – गालखर्जनै:, र्दंशानां – वनमक्षिकाणाम्, निवारणै: – दूरीकरणै:, अव्याहतै: – अनिरुद्धै:, स्वैरगतै: – स्वच्छन्दगमनै: च, तस्या: – नन्दिन्या:, समाराधनतत्पर: – शुश्रूषासक्त:, अभूत् – बभूव |