संस्कृत साहित्य अभिज्ञानशाकुन्तलं श्लोक -Class 2
सुभगसलिलावगाहा: पाटलसंसर्गसुरभिवनवाता: |
प्रच्छायसुलभनिद्रा दिवसा: परिणामरमणीया: ||
सङ्केत:- सुभग ……………………………………………………………………………………… रमणीया: |
प्रसङ्ग:- महाकवि कालिदासेन विरचितम् ‘अभिज्ञानशाकुन्तलम्’ नामकम् महाकाव्याद् उद्धृतोऽयम् श्लोक:| अत्र महाकवि ग्रीष्मस्य समयं अधिकृत्य गायति|
अन्वय:- दिवसा: सुभगसलिला अवगाहा: पाटल संसर्ग सुरभि वनवाता: प्रच्छाय सुलभ निद्रा दिवसा: परिणाम रमणीया|
व्याख्या:- दिवसा: – दिनानि, सुभग – शोभन: (सुखकर:), सलिले – जले, अवगाहनं – स्नानं, पाटल – पुष्प विशेष, संसर्गेण – सम्बन्धेन, सुरभिण: – सुगन्धिता:, वनस्य – अरण्यस्य, वाता: – वायवो, प्रच्छाय – सघनच्छाया, सुलभ – सुखेन लभ्या, निद्रा – सुप्तावस्था, दिवसा: – दिनानि, परिणाम – सायंकाले, रमणीया – मनोहरा: सन्तीलि|
अर्थ:- सुखकर (अच्छा) लगता है स्नान करना जिनमें, गुलबों (पाटल) के सम्पर्क से सुगन्धित हो जाता है वन का पवन जिनमें, सघन (घनी) छाया में सरलता से आति है नींद जनमें, ऐसे (गर्मी के) दिन सायं काल में मनोहर (होते हैं) |
भावार्थ:- सुत्रधारो नाटीम्प्रति ग्रीष्मसमयं वर्णयन् कथयति – ‘ग्रीष्मकालिकदिनेषु जलेषु स्नानमतीवसुखकरं भवति| पाटलपुष्पसंसर्गमवाप्य वनपवना: सौरभयुक्ता: सन्तो वान्ति| वृक्षादिच्छायासु निद्रा सुलभा जायते| सायङ्काले दिवसा रमणीया जायन्ते इति भाव: |